कारवेल्लम् (Bitter guard) कश्चन शाकविशेषः । कारवेल्लं भारते शाकत्वेन सर्वत्र उपयुज्यते । एतेन क्वथितं, व्यञ्जनं, भर्ज्यं, दाधिकम् इत्यादिकं निर्मीयते । अनेन कारवेल्लेन गुलिका अपि निर्मीयते । एतत् कारवेल्लं तिक्तरुचियुक्तम् । कारवेल्लं कर्तयित्वा लवणजले संस्थाप्य किञ्चित्समयानन्तरं सम्यक् अग्नौ पचनीयम् तदनन्तरं जलं संशोध्य केवलं खण्डानां स्वीकारे कृते तस्य तिक्तता न्यूना भवति । कारवेल्लस्य त्वचः निवारणेनापि तिक्तता न्यूना भवति । इदं सामान्यतः भारतस्य सर्वेषु प्रदेशेषु वर्धते ।
कारवेन्लस्य रसस्य पानेन जीर्णशक्तिः वर्धते । बुभुक्षा अपि भवति । एतत् अजीर्णदोषम्, उदरे विद्यमानान् क्रिमीन् अपि निवारयति । यकृतः रोगाः अपि अस्य सेवनेन अपगच्छन्ति ।
कारवेल्लपर्णस्य रसलेपनेन चर्मणः रोगाः, ज्वलनम्, पिटकः, कुष्टरोगः च निवारितः भवति । पादयोः अस्य लेपनं ज्वलननिवारकम् । लघुव्रणस्य रक्तप्रवाहनिवारणे कारवेल्लरसलेपनं परिणामकारि ।
मधुमेहनियन्त्रणाय कारवेल्लं बहु परिणामकारि । इदं रक्ते विद्यमानं शर्करांशं न्यूनीकरोति । यकृतः आमाशयस्य च कार्यसामर्थ्यं वर्धयति । अगन्याशयम् उत्तेज्य इन्सूलिन् स्रावं वर्धयति ।
कारवेल्लसेवनं नेत्रस्यापि हितकरम् । सर्पदंशने सति अस्य रसस्य सेवनेन वमनं भवति । विषप्रभावः न्यूनः भवति रक्तार्शोरोमः (ब्रीडिङ्ग पैल्स्) प्रतिदिनं खण्डशर्करायुक्तस्य कारवेल्लस्य सेवनेन निवारितः भवति । रसः १०-२० मि. ली. प्रमाणेन सेवितुं शक्यते कारवेल्लरसेन सह मरीचं पिष्ट्वा नेत्रे कज्जलवत् लेपनेन दिवान्धता (day blindness) दूरीकृतं भवति । खण्डशर्करायुक्तस्य कारवेल्लरसस्य पानेन मुखस्य पिटाकाः शान्ताः भवति । कारवेल्लरसे गर्भनिरोधकशक्तिरस्ति इति केषाञ्चित् विश्वासः तदर्थं मासिकदिनोत्तरं दिनत्रयं यावत् पञ्चचमसपरिमितः कारवेल्लरसः पातव्यः इति वदन्ति ।
कारवेल्लरसस्य सेवनम् अधिकं भवति चेत् कदाचित् वमनम् , शौचसमस्या च भवेत् । तदा घृतमिश्रितस्य ओदनस्य सेवनेन शमनं भवति
• ममोर्डिसिन् नामकं विशिष्टं रासायनिकघटकं कारवेल्ले अस्ति इति संशोधकाः वदन्ति । • कारवेल्लस्य मूले तिक्तं ग्लुकोसैड् , सुगन्धिततैलम् , सेफोनिन्सहशपदार्थः म्यूसिलेज् च भवति • बीजे क्रिमिनाशाकांशः , रक्तवर्णस्य तैलांशः च भवति । • १ चैना मलयः आफ्रिका इत्यादिषु देशेषु अपि कारवेल्लं वर्धते ।
सामान्यतः वर्षाकाले , ग्रीष्मकाले च इदम् अधिकं वर्धते । बीजवापात् पूर्वं जले किञ्चित् कालं शीघ्रं अङ्कुरितं भवति ।