कुस्तुम्बरी (Coriander) धान्याकम् भारते वर्धमानः कश्चन धान्यविशेषः । इदं धान्याकम् अपि सस्यजन्यः आहारपदार्थः । इदं आङ्ग्लभाषायां Coriander इति उच्यते । अस्य धान्याकस्य सस्यशास्त्रीयं नाम अस्ति Coriandrum Saticiam इति । अस्य धान्याकस्य धान्यकं, धान्यका, धान्यं, धानी, धानेयकः, कुस्तुम्बरुः, अल्रका, छत्रधान्यं, वितन्नकं, कुस्तुम्बरी, सुगन्धी, शाकयोग्यं, सूक्ष्मपत्रं, जनप्रियं, धान्यबीजं, बीजधान्यं, वेधकम् इत्यादीनि अन्यानि अपि नामानि सन्ति । एतत् धान्याकम् अपि भारते सर्वस्य अपि गृहस्य पाकशालायां भवति एव । एतत् यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्य धान्याकसस्यस्य पत्रं, पुष्पं, काण्डं, मूलं तथा शलाटुः च उपयुज्यते ।
प्रधानेषु उपस्करद्रव्येषु द्रव्येषु अन्यतमा कुस्तुम्बरी । अस्याः बीजं, सस्यं च व्यापकरुपेण नित्यजीवने उपयुज्यते । आहारे सारः, क्वथितम् इत्यादीनां निर्माणे अस्य बीजानि, चित्रन्नं व्यञ्जनं इत्यादिषु पुर्णानां च उपयोगः क्रियते । अस्य एव कश्चन विशिष्ठेः गन्धः विद्यते । व्यञ्जनेषु कुस्तुम्बरीप्रयोगः आरोग्यप्रदः इति शुश्रुतस्य मतम् ।
एतत् धान्याकं यदा अशुष्कं भवति तदा मधुरं, सुगन्धयुक्तं हृद्यं च भवति । यदा शुष्कं भवति तदा कषायं, तिक्तमधुरं च भवति । एतत् धान्याकं स्निग्धं, शीतवीर्यं च ।
अपक्वकुस्तुम्बरीपर्णानि पिष्ट्वा लेप कृत्वा ललाटे लेपनेन शिरोवेदना अपगच्छति । पित्रस्य कारणेन जातः शोथः विसर्पिः (harpes) शनगण्डः गण्डमाला इत्यादिषु अपि अयं लेपः परिणामकारी । रक्तपित्तकारणेन नासिकातः रक्तस्रावः भवति चेत् कुस्तुम्बरीरसः नासिकायां स्थापनीयः । रक्तनेत्रे सति कुस्तुम्बर्याः रसेन्द्र कषायेन वा नेत्रं क्षालनीयम्
कुस्तुम्बरीबीजस्य त्वचं निष्कास्य मज्जाभागं क्षीरेण सह क्वथयित्वा सेव्यते चेत् भ्रमः मूर्छा, विस्मरणम् इत्यादयः मानसिकरोगाः शाम्यन्ति । इयं मस्तिष्कस्य बलप्रदा ।
अत्यन्तपिपासया यदा तृणारोगः भवति तदा कुस्तुम्बरीबीजानि किञ्चित्कानं शीतजले संस्थाप्य तदनन्तरं शोधयित्वा पातव्यम् । केषाञ्चित् सदा पिपासा भवति । तेन सह शरीरे दाहस्य अनुभवोऽपि भवति । नेत्रे ज्वलतः । शरीरस्य प्रत्येकमपि अङ्गं दहति वा इति भासते । अस्य कस्तुम्बरीरसेन शर्करां योजयित्वा सेवन्ते चेत् परिणामकारी इति प्रसिद्धः लेखकः चन्द्रशेखर ठाकूरः वदति ।
कुस्तुम्बरीपानकं प्रतिदिनं प्रातः सेवन्ते चेत् दाहः पिपासा च शाम्यति । शरीरस्य सर्वाणि स्नोतांसि शुद्धानि भवन्ति इति भावमिश्रस्य मतम् । ज्वरे कुस्तुम्बरीकषायः परिणामकारी ।
वमनं, शीतज्वरः , कामुकताधिक्यता इत्यादिषु पित्तजरोगेषु शकरामिश्रितः कुस्तुम्बरीरसः परिणामकारी । आंद्रकेन सह कुस्तुम्बरीरसस्य पानं आमज अजीर्णता अपगच्छति । मूत्राशयः परिशुद्धः भवति ।